वांछित मन्त्र चुनें

ध॒र्तारो॑ दि॒व ऋ॒भव॑: सु॒हस्ता॑ वातापर्ज॒न्या म॑हि॒षस्य॑ तन्य॒तोः । आप॒ ओष॑धी॒: प्र ति॑रन्तु नो॒ गिरो॒ भगो॑ रा॒तिर्वा॒जिनो॑ यन्तु मे॒ हव॑म् ॥

अंग्रेज़ी लिप्यंतरण

dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasya tanyatoḥ | āpa oṣadhīḥ pra tirantu no giro bhago rātir vājino yantu me havam ||

पद पाठ

ध॒र्तारः॑ । दि॒वः । ऋ॒भवः॑ । सु॒ऽहस्ताः॑ । वा॒ता॒प॒र्ज॒न्या । म॒हि॒षस्य॑ । त॒न्य॒तोः । आपः॑ । ओष॑धीः । प्र । ति॒र॒न्तु॒ । नः॒ । गिरः॒ । भगः॑ । रा॒तिः । वा॒जिनः॑ । य॒न्तु॒ । मे॒ । हव॑म् ॥ १०.६६.१०

ऋग्वेद » मण्डल:10» सूक्त:66» मन्त्र:10 | अष्टक:8» अध्याय:2» वर्ग:13» मन्त्र:5 | मण्डल:10» अनुवाक:5» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (महिषस्य तन्यतोः) महान् प्रकाश के विस्तार करनेवाले परमात्मा या सूर्य का (दिवः-धर्तारः) द्युलोक-प्रकाश के धारक (सुहस्ताः-ऋभवः) उत्तम हाथवाले शिल्पियों की भाँति किरणें और (वातापर्जन्या) शोभन हस्तक्रियावाले शिल्पियों की भाँति वायु और मेघ (ओषधीः-प्रतिरन्तु) ओषधिकों को बढ़ाते हैं (नः गिरः) हमारी वाणियों के प्रति (भगः-रातिः) भजनीय परमात्मा सुखदाता (वाजिनः) ज्ञानवान् विद्वान् और ऋत्विज (मे हवं हन्तु) मेरी प्रार्थना को पूरा करें ॥१०॥
भावार्थभाषाः - महान् ज्ञानप्रकाशवाले परमात्मा की ज्ञानरश्मियाँ तथा सूर्य की प्रकाशरश्मियाँ एवं वायु और मेघ शिल्पियों की भाँति ओषधियों के सम्पादन में समर्थ हैं तथा ज्ञानी जन हमारी प्रार्थना को सुनते हैं-स्वीकार करते हैं ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (महिषस्य तन्यतोः) महतः “महिषो महन्नाम” [निघ० ३।३] प्रकाशस्य विस्तारयितुः परमात्मनः सूर्यस्य वा (दिवः-धर्तारः) द्युलोकस्य-प्रकाशस्य धारकाः (सुहस्ताः-ऋभवः) सुहस्ताः शिल्पिन इव रश्मयः ‘लुप्तोपमावाचकालङ्कारः’ “यदि कर्तं पतित्वा संश्रयेयद्वाऽश्मा प्रहतो जघान। त्रभूरथस्येवाङ्गानि सन्दधत्परुषापरुः” [अथर्व० ४।१२।७] (वातापर्जन्या) वातमेघौ (ओषधीः प्रतिरन्तु) ओषधीः प्रवर्धयन्ति ‘लडर्थे लोट्’ (नः-गिरः) अस्माकं वाचः प्रति (भगः-रातिः) भजनीयः परमात्मा सुखदाता च (वाजिनः) ज्ञानवन्तो विद्वांसः-ऋत्विजश्च (मे हवं यन्तु) प्रार्थनां प्राप्नुवन्तु पूरयन्तु ॥१०॥